मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६८, ऋक् ७

संहिता

त्वां मृ॑जन्ति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि॑र्हि॒तम् ।
अव्यो॒ वारे॑भिरु॒त दे॒वहू॑तिभि॒र्नृभि॑र्य॒तो वाज॒मा द॑र्षि सा॒तये॑ ॥

पदपाठः

त्वाम् । मृ॒ज॒न्ति॒ । दश॑ । योष॑णः । सु॒तम् । सो॒म॒ । ऋषि॑ऽभिः । म॒तिऽभिः॑ । धी॒तिऽभिः॑ । हि॒तम् ।
अव्यः॑ । वारे॑भिः । उ॒त । दे॒वहू॑तिऽभिः । नृऽभिः॑ । य॒तः । वाज॑म् । आ । द॒र्षि॒ । सा॒तये॑ ॥

सायणभाष्यम्

हे सोम योषणः द्वाभ्यांपाणिभ्यां विभज्योत्पन्ना दश दशसंख्याकाअंगुलयः । ऋषिभि- र्मधुच्छन्दः प्रभृतिभिः सुतमभिषुतं हितं पात्रेषु निहितं त्वा त्वां मतिभिः स्तुतिभिः धीतिभिः कर्मभिश्च अव्योवारेभिः अविवालैः पवित्रैः मृजन्ति शोधयन्ति । उतापिच देवहूतिभिः । देवा- ह्वनयुक्तैः नृभिः कर्मनेतृभिः ऋत्विग्भिः यतः गृहेषु संयमितः संगृहीतस्त्वं सातये दानाय वाजमन्नमादर्षि आविदारयसि विवृतंकरोषि स्तोतृभ्यः अन्नादिकं प्रयच्छसीतियावत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०