मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६८, ऋक् ८

संहिता

प॒रि॒प्र॒यन्तं॑ व॒य्यं॑ सुषं॒सदं॒ सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभः॑ ।
यो धार॑या॒ मधु॑माँ ऊ॒र्मिणा॑ दि॒व इय॑र्ति॒ वाचं॑ रयि॒षाळम॑र्त्यः ॥

पदपाठः

प॒रि॒ऽप्र॒यन्त॑म् । व॒य्य॑म् । सु॒ऽसं॒सद॑म् । सोम॑म् । म॒नी॒षाः । अ॒भि । अ॒नू॒ष॒त॒ । स्तुभः॑ ।
यः । धार॑या । मधु॑ऽमान् । ऊ॒र्मिणा॑ । दि॒वः । इय॑र्ति । वाच॑म् । र॒यि॒षाट् । अम॑र्त्यः ॥

सायणभाष्यम्

परिप्रयन्तं पात्राणिपरितः प्रगच्छन्तं वय्यं देवैः काम्यमानं सुषंसदं शोभनं संसदनं सोमं मनीषा मनसईशित्र्यः स्तुभः स्तुतयः अभ्यनूषत अभिष्टुवन्ति । वय्यं वीगत्यादिषु इत्यस्मात् वयंति भय्यप्रवय्येचछन्दसीति निपातितः अत्रानुपसर्गस्यापिनिपातनंभवति मधुमान् मदकर- रसवान् यः सोमः धारया स्वीयया ऊर्मिणा वसतीवर्याख्येनोदकेन सह दिवआकाशात् द्रोणक- लशे आपतति रयिषाट् शत्रुधनानामभिभविता अमर्त्यः मनुष्यधर्मरहितः ससोमः वाचमियर्ति प्रेरयति तदाहि स्तोतारः स्तुवन्तीति उच्यन्ते ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०