मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६९, ऋक् १

संहिता

इषु॒र्न धन्व॒न्प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒र्ज्यूध॑नि ।
उ॒रुधा॑रेव दुहे॒ अग्र॑ आय॒त्यस्य॑ व्र॒तेष्वपि॒ सोम॑ इष्यते ॥

पदपाठः

इषुः॑ । न । धन्व॑न् । प्रति॑ । धी॒य॒ते॒ । म॒तिः । व॒त्सः । न । मा॒तुः । उप॑ । स॒र्जि॒ । ऊध॑नि ।
उ॒रुधा॑राऽइव । दु॒हे॒ । अग्रे॑ । आ॒ऽय॒ती । अस्य॑ । व्र॒तेषु॑ । अपि॑ । सोमः॑ । इ॒ष्य॒ते॒ ॥

सायणभाष्यम्

अस्मिन्पवमानरूपे इन्द्रे मतिर्मननीयास्मदीयास्तुतिः प्रतिधीयते अस्माभिर्निधीयते वा । दधातेरूपम् । तत्रदृष्टान्तः—इषुर्न यथा इषुः शरः धन्वन् धनुषि प्रतिधीयते तद्वत् । किंच ऊधनि सर्वस्य पोषयितृत्वेन ऊधःस्थानीये इन्द्रे सोमो मदार्थं अस्माभिरुपसर्जि उपसृज्य- ते । कथमिव मातुर्गोरूधनि पयोधारके वत्सोन वत्सोयथा पयःपानार्थं सृज्यते तद्वत् । उरुधारेव बहुविधपयोधारागौरिव । अग्रे वत्सस्य पुरतः आयती गच्छती सती पयोदुहे दुग्धे । तथा सोयमिन्द्रः वत्सभूतेभ्यः स्तोतृभ्यः पुरतोगच्छन् बहुविधान् कामान् दुग्धे । किंच अस्यैतादृशस्यव्रते ष्वपिच सोमइष्यते यष्टृभिः प्रेर्यते खलु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१