मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६९, ऋक् २

संहिता

उपो॑ म॒तिः पृ॒च्यते॑ सि॒च्यते॒ मधु॑ म॒न्द्राज॑नी चोदते अ॒न्तरा॒सनि॑ ।
पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मान्द्र॒प्सः परि॒ वार॑मर्षति ॥

पदपाठः

उपो॒ इति॑ । म॒तिः । पृ॒च्यते॑ । सि॒च्यते॑ । मधु॑ । म॒न्द्र॒ऽअज॑नी । चो॒द॒ते॒ । अ॒न्तः । आ॒सनि॑ ।
पव॑मानः । स॒म्ऽत॒निः । प्र॒घ्न॒ताम्ऽइ॑व । मधु॑ऽमान् । द्र॒प्सः । परि॑ । वार॑म् । अ॒र्ष॒ति॒ ॥

सायणभाष्यम्

अस्मिन् पवमानरूपे स्तोत्रे इन्द्रे मतिः स्तुतिरुपोपृच्यते उपपृच्यते स्तोतृभिः संयोज्य ते पृचीसंपर्के । तथा मधु मदकरः सोमः इन्द्रार्थं सिच्यते । अद्भिर्यवसक्तुभिश्च सिक्तोभव- ति । ततश्च मन्द्राजनी अजगतिक्षेपणयोरित्यस्य ल्युटि ङीपि रूपम् । मदकरस्य रससुअ प्रेर- यित्री सोमधारा तस्येन्द्रस्य आसनि आस्येन्तर्मध्ये चोदते यष्टृभिः प्रेर्यते । आस्यशब्दस्य पद्दन्नोमासित्यादिनाआसन्नित्यादेशः । किंच संतनिः गृहादिषु सम्यक् विस्तृतः मधुमान् । मदकररसवान् पवमानः पूयमानः सोमः द्रप्सः द्रुतगमनशीलः । यद्वा क्षिप्रं हननशीलःसन् वारं अविवालमयं पवित्रं परितः अर्षति आगच्छति । तत्रदृष्टान्तः—प्रघ्रतामिव । प्रकर्षेणहं- तॄणां योद्धॄणां संतनिः सम्यग्विसृष्टः शरो यथा शीघ्रंप्राप्यमभितोगच्छति तद्वत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१