मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६९, ऋक् ४

संहिता

उ॒क्षा मि॑माति॒ प्रति॑ यन्ति धे॒नवो॑ दे॒वस्य॑ दे॒वीरुप॑ यन्ति निष्कृ॒तम् ।
अत्य॑क्रमी॒दर्जु॑नं॒ वार॑म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो॑ अव्यत ॥

पदपाठः

उ॒क्षा । मि॒मा॒ति॒ । प्रति॑ । य॒न्ति॒ । धे॒नवः॑ । दे॒वस्य॑ । दे॒वीः । उप॑ । य॒न्ति॒ । निः॒ऽकृ॒तम् ।
अति॑ । अ॒क्र॒मी॒त् । अर्जु॑नम् । वार॑म् । अ॒व्यय॑म् । अत्क॑म् । न । नि॒क्तम् । परि॑ । सोमः॑ । अ॒व्य॒त॒ ॥

सायणभाष्यम्

उक्षा रेतसः सेक्ता वृषभः पुरतोमिमाति शब्दायते माङ्माने शब्देच तं वृषभं धेनवो गावः प्रतियन्ति अनुगच्छन्ति तथा देवस्य द्योतमानस्य निः कृतं संस्कृतं स्थानं देवीः देव्यउपयन्ति उपगच्छन्ति । अनेनार्धेन सोमस्तुतिश्चाभिधीयते सोमःसन् द्रोणकलशाभिगम- नकाले शब्दंकरोति तमनुधेनवः प्रीणयित्र्याः स्तुतयः परियन्ति देवस्थानं स्तुतयोभिगच्छ न्ति । तथा सोयंसोमः अर्जुनं श्वेतवर्णं अव्ययमविमयमविस्वभूतं वारं वालं पवित्रमत्यक्र- मीत् अतिक्रामति अतिक्रम्य पात्राणिगच्छतीत्यर्थः । किंच सोमः अत्कंन आत्मीयं कवच- मिव । निक्तमुज्ज्वलं श्रयणद्रव्यं पर्यव्यत परितः संवृणोति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१