मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६९, ऋक् ६

संहिता

सूर्य॑स्येव र॒श्मयो॑ द्रावयि॒त्नवो॑ मत्स॒रासः॑ प्र॒सुपः॑ सा॒कमी॑रते ।
तन्तुं॑ त॒तं परि॒ सर्गा॑स आ॒शवो॒ नेन्द्रा॑दृ॒ते प॑वते॒ धाम॒ किं च॒न ॥

पदपाठः

सूर्य॑स्यऽइव । र॒श्मयः॑ । द्र॒व॒यि॒त्नवः॑ । म॒त्स॒रासः॑ । प्र॒ऽसुपः॑ । सा॒कम् । ई॒र॒ते॒ ।
तन्तु॑म् । त॒तम् । परि॑ । सर्गा॑सः । आ॒शवः॑ । न । इन्द्रा॑त् । ऋ॒ते । प॒व॒ते॒ । धाम॑ । किम् । च॒न ॥

सायणभाष्यम्

सूर्यस्यरश्मयः सर्वस्यप्रेरकस्य सुवीर्यस्य वादित्यस्य रश्मयः सर्वतोव्यापकाः किरणा- इव द्रावयित्नवः सर्वत्रद्रवणशीलाः मत्सरासोमदकराः प्रसुपः शत्रूणां प्रस्वापकाः हन्तार आशवोग्रहेषुचमसेषुच व्याप्ताः सर्गासः सृज्यमानाः सोमाः ततं विस्तृतं तन्तुं तन्तुभिः कृतं वस्त्रं साकंसह युगपत् परिईरते परितोगच्छन्ति तेसोमाइन्द्रादृते इन्द्रंवर्जयित्वान्यत्किं चन धाम देवशरीरं लक्षीकृत्य नपवते नगच्छति । एकवचनं छान्दसं नगच्छन्ति किंतु इन्द्रस्यैव धाम प्रति गच्छन्ति । इन्द्रस्य धाम्नोयष्टव्यत्वंच—अयाळिन्द्रस्यप्रियाधामानीति । मंत्रवर्णादवगम्यते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२