मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६९, ऋक् ७

संहिता

सिन्धो॑रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता॒ मदा॑सो गा॒तुमा॑शत ।
शं नो॑ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजा॑ः सोम तिष्ठन्तु कृ॒ष्टयः॑ ॥

पदपाठः

सिन्धोः॑ऽइव । प्र॒व॒णे । नि॒म्ने । आ॒शवः॑ । वृष॑ऽच्युताः । मदा॑सः । गा॒तुम् । आ॒श॒त॒ ।
शम् । नः॒ । नि॒ऽवे॒शे । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । अ॒स्मे इति॑ । वाजाः॑ । सो॒म॒ । ति॒ष्ठ॒न्तु॒ । कृ॒ष्टयः॑ ॥

सायणभाष्यम्

वृषच्युताः । वृषहिंसासंक्लेशनदानेष्वपि । वृषभिः सोमस्यदातृभिः ऋत्विग्भिश्च्युताः प- रिस्रुता मदासोमादकाः सोमाः स्तुतिभिः प्राप्तव्ये इन्द्रेगातुं गमनमाशत व्याप्नुवन्ति । तत्र दृष्टान्तः—सिन्धोरिव प्रवणे गच्छन्त्युदकानि यत्रेति तत्प्रवणं तस्मिन्निम्नेस्थले सिन्धोर्नद्या- आशवोव्याप्ता आपोयथा गच्छन्ति तद्वत् । अथप्रत्यक्षः । हेसोम नोस्माकं निवेशे स्वगृहंप्रति प्रवेशने निर्गमने वा द्विपदे पुत्रादिकाय चतुष्पदे गवादिकाय पशवे शं सुखं कुरु । किंच हे सोम अस्मे अस्मासु वाजाअन्नानि कृष्टयः पुत्रादिकाः प्रजाश्च तिष्ठन्तु अन्नादिकं देही- त्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२