मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६९, ऋक् ८

संहिता

आ नः॑ पवस्व॒ वसु॑म॒द्धिर॑ण्यव॒दश्वा॑व॒द्गोम॒द्यव॑मत्सु॒वीर्य॑म् ।
यू॒यं हि सो॑म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धान॒ः प्रस्थि॑ता वय॒स्कृतः॑ ॥

पदपाठः

आ । नः॒ । प॒व॒स्व॒ । वसु॑ऽमत् । हिर॑ण्यऽवत् । अश्व॑ऽवत् । गोऽम॑त् । यव॑ऽमत् । सु॒ऽवीर्य॑म् ।
यू॒यम् । हि । सो॒म॒ । पि॒तरः॑ । मम॑ । स्थन॑ । दि॒वः । मू॒र्धानः॑ । प्रऽस्थि॑ताः । व॒यः॒ऽकृतः॑ ॥

सायणभाष्यम्

हे सोम वसुमत् वसुयुक्तं हिरण्यवत् कनकादिसहितं अश्ववत् गोमत् गवाश्वसहितं यवमत् यवोनामधान्यविशेषः धान्यविशिष्टं सुवीर्यं शोभनवीर्योपेतं धनं नोस्मभ्यमापव- स्व आप्रापय प्रयच्छेतियावत् । किंच हेसोम यतस्त्वं ममपितॄणामंगिसामपि पितासि ततोयूयमेव ममपितरःस्थन भवथ पितृबहुत्वमस्यसोमस्याभिधीयते । कीदृशाः दिवोद्यु- लोकस्यमूर्धानः मूर्धवदुच्छ्रिताः कर्मभिः स्वर्गादिकं अलभन्तेत्यर्थः । प्रस्थिताः सर्वदाकर्मक- रणार्थंस्थिता वयस्कृतः हवीरूपस्यान्नस्य कर्तारः तादृशाममपितरः त्वं भवसि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२