मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६९, ऋक् ९

संहिता

ए॒ते सोमा॒ः पव॑मानास॒ इन्द्रं॒ रथा॑ इव॒ प्र य॑युः सा॒तिमच्छ॑ ।
सु॒ताः प॒वित्र॒मति॑ य॒न्त्यव्यं॑ हि॒त्वी व॒व्रिं ह॒रितो॑ वृ॒ष्टिमच्छ॑ ॥

पदपाठः

ए॒ते । सोमाः॑ । पव॑मानासः । इन्द्र॑म् । रथाः॑ऽइव । प्र । य॒युः॒ । सा॒तिम् । अच्छ॑ ।
सु॒ताः । प॒वित्र॑म् । अति॑ । य॒न्ति॒ । अव्य॑म् । हि॒त्वी । व॒व्रिम् । ह॒रितः॑ । वृ॒ष्टिम् । अच्छ॑ ॥

सायणभाष्यम्

पवमानासः पवित्रेणपूयमाना एतेस्मदीयाःसोमाः सातिं षणसंभ्रक्तौ कर्मणिक्तिन् सर्वैः संभजनीयमिन्द्रं अच्छ प्रययुः प्रकर्षेणगच्छन्ति । तत्रदृष्टान्तः—रथाइव इन्द्रस्यरथाः यथा- सातिम् । षोन्तकर्मणि ऊतियूतीत्यादिनानिपातितः । सीयते म्रियते अस्मिन्निति सातिः संग्रा मः तमच्छ तं प्रतिप्रगच्छन्ति तद्वत् । किंच सुताः ग्रावभिरभिषुताः सोमाः अव्यमविवाल भवं पत्नित्रमतियन्ति अतीत्यगच्छन्ति । तिमी हरितः हरितवर्णाश्वाः । यद्वा हरितः ते आ- दित्यवाहनरूपाअश्वाः भूत्वा वव्रिं वृणोति शरीरमिति वव्रिर्जरा आदृगमहनेति किप्रत्ययः सर्वांगव्यापिनीं जरां हित्वी हित्वा तरुणाः सन्तः वृष्टिमच्छ वृष्टिंगमयितुं गच्छन्ति । हित्वी जहातेश्चक्त्वीति ह्यादेशः स्नात्व्यादयश्चेतिछन्दसि निपातितं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२