मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६९, ऋक् १०

संहिता

इन्द॒विन्द्रा॑य बृह॒ते प॑वस्व सुमृळी॒को अ॑नव॒द्यो रि॒शादा॑ः ।
भरा॑ च॒न्द्राणि॑ गृण॒ते वसू॑नि दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥

पदपाठः

इन्दो॒ इति॑ । इन्द्रा॑य । बृ॒ह॒ते । प॒व॒स्व॒ । सु॒ऽमृ॒ळी॒कः । अ॒न॒व॒द्यः । रि॒शादाः॑ ।
भर॑ । च॒न्द्राणि॑ । गृ॒ण॒ते । वसू॑नि । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥

सायणभाष्यम्

हे इन्दो सोम त्वं बृहते महते इन्द्राय तदर्थं पवस्व पात्रेषुक्षर इन्द्रंप्रत्यागच्छ वा । कीदृशः सुमृळीकः इन्द्रस्य सुष्ठुसुखयिता अतएव अनवद्यः गर्हारहितः रिशादा रिशतां बाधकानां असिता एतादृशस्त्वं इन्द्राय पवस्व । किंच गृणते स्तुवते मह्यं चंद्राणि आ- ह्लादकानि वसूनि धनानि भर प्रयच्छ । किंच हे द्यावापृथिवी युवांच पवमानेन परि- प्लुते सत्यौ देवैः सुभगैर्धनैः सह नोस्मान्प्रावतं प्ररक्षतम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२