मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७०, ऋक् ३

संहिता

ते अ॑स्य सन्तु के॒तवोऽमृ॑त्य॒वोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ ।
येभि॑र्नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्राजा॑नं म॒नना॑ अगृभ्णत ॥

पदपाठः

ते । अ॒स्य॒ । स॒न्तु॒ । के॒तवः॑ । अमृ॑त्यवः । अदा॑भ्यासः । ज॒नुषी॒ इति॑ । उ॒भे इति॑ । अनु॑ ।
येभिः॑ । नृ॒म्णा । च॒ । दे॒व्या॑ । च॒ । पु॒न॒ते । आत् । इत् । राजा॑नम् । म॒ननाः॑ । अ॒गृ॒भ्ण॒त॒ ॥

सायणभाष्यम्

अस्यैतादृशस्य सोमस्य केतवः प्रज्ञापकाः सर्वैश्चायनीयाः अमृत्यवो मरणधर्मरहिताः अतएव अदाभ्यासः । दभेश्चेतिवक्तव्यमितिण्यत् । परैरहिंस्यास्ते तादृशा अस्यरश्मयः उभे जनुषी जन्मनी स्थावरजंगमात्मके द्वेअनुलक्षीकृत्य संतु रक्षन्तु । ओषधीनामयं सोमोरेतो- निषिंचति यज्ञे मनुष्याणां च धाराः स्रवन्ति खलु । सोयं येभिर्यैः केतुभिर्नृम्णा नृम्णानि बलानि देव्या देवार्हाणि चान्नानि प्रेरयति । आदिदभिषवानन्तरमेव राजानं सोमं मननाः मननीयाः स्तुतयः अगृभ्णत परिगृह्णन्ति प्राप्नुवन्तीत्यर्थः । हृग्रहोरिति भकारः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३