मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७०, ऋक् ४

संहिता

स मृ॒ज्यमा॑नो द॒शभि॑ः सु॒कर्म॑भि॒ः प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा॑ ।
व्र॒तानि॑ पा॒नो अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒ अनु॑ पश्यते॒ विशौ॑ ॥

पदपाठः

सः । मृ॒ज्यमा॑नः । द॒शऽभिः॑ । सु॒कर्म॑ऽभिः । प्र । म॒ध्य॒मासु॑ । मा॒तृषु॑ । प्र॒ऽमे । सचा॑ ।
व्र॒तानि॑ । पा॒नः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । नृ॒ऽचक्षाः॑ । अनु॑ । प॒श्य॒ते॒ । विशौ॑ ॥

सायणभाष्यम्

सपवमानः सुकर्मभिः शोभनकर्मयुक्ताभीर्दशबिर्दशसंख्याकाभिरंगुलिभिर्मृज्यमानः सः सचा अग्नौप्रास्ताहुतिरित्यादिक्रमेणापांसहायः प्रमे लोकान् प्रमातुं मध्यमासु अन्तरिक्ष- स्थितास्ववतिष्ठते । प्रमे प्रपूर्वान्मातेः क्विपि ङयि आतइति योगविभागादाकारलोपः । किंच नृचक्षाः नृणांद्रष्टा पवमानः चारुणः कल्याण्स्यामृतस्योदकस्य वृष्ट्यर्थं व्रतानि या- गादिकर्माणि पानोरक्षन् उभे विशौ मनुष्यान् देवांश्चांतरिक्षेण गच्छन् अनुपश्यते अनुप- श्यति मनुष्यानभिमतदानेन देवान् हविः प्रदानेनेति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३