मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७०, ऋक् ५

संहिता

स म॑र्मृजा॒न इ॑न्द्रि॒याय॒ धाय॑स॒ ओभे अ॒न्ता रोद॑सी हर्षते हि॒तः ।
वृषा॒ शुष्मे॑ण बाधते॒ वि दु॑र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुधः॑ ॥

पदपाठः

सः । म॒र्मृ॒जा॒नः । इ॒न्द्रि॒याय॑ । धाय॑से । आ । उ॒भे इति॑ । अ॒न्तरिति॑ । रोद॑सी॒ इति॑ । ह॒र्ष॒ते॒ । हि॒तः ।
वृषा॑ । शुष्मे॑ण । बा॒ध॒ते॒ । वि । दुः॒ऽम॒तीः । आ॒देदि॑शानः । श॒र्य॒हाऽइ॑व । शु॒रुधः॑ ॥

सायणभाष्यम्

मर्मृजानः पवित्रेणमृज्यमानः सपवमानः धायसे जगतोधारकाय इन्द्रियाय इन्द्रस्यपर्या- प्ताय बलाय तदर्थं उभे रोदसी कालाध्वनोरिति द्वितीया उभयोर्द्यावापृथिव्योरन्तर्हितः मध्येवर्तमानःसन् आहर्षत । सर्वतोगच्छति । इन्द्रस्यहिसोमेन बलं भवति । वृषा कामाना- मुदकानां वा वर्षकः सोयं शुष्मेण शोषकेण बलेन दुर्मतीः दुष्टबुद्धीनसुरान् विबाधते वि- शेषेण पीडयति । किंकुर्वन् शुरुधः शुचा रुंधन्ति परानिति पृषोदरादिः दुःखकारिणोसुरा- नादेदिशानः पुनः पुनराह्वयन् हन्ति । तत्रदृष्टान्तः—शर्यहेव हननसाधनैरिषुभिः हन्ता वीरः प्रतिभटान् यथा हिनस्ति तद्वत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३