मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७०, ऋक् ७

संहिता

रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृङ्गे॒ शिशा॑नो॒ हरि॑णी विचक्ष॒णः ।
आ योनिं॒ सोम॒ः सुकृ॑तं॒ नि षी॑दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी॑ ॥

पदपाठः

रु॒वति॑ । भी॒मः । वृ॒ष॒भः । त॒वि॒ष्यया॑ । शृङ्गे॒ इति॑ । शिशा॑नः । हरि॑णी॒ इति॑ । वि॒ऽच॒क्ष॒णः ।
आ । योनि॑म् । सोमः॑ । सुऽकृ॑तम् । नि । सी॒द॒ति॒ । ग॒व्ययी॑ । त्वक् । भ॒व॒ति॒ । निः॒ऽनिक् । अ॒व्ययी॑ ॥

सायणभाष्यम्

भीमः शत्रूणांभयंकरः वृषभः कामानांउदकानां वा वर्षणः विचक्षणः सर्वस्यविदर्शन- शीलः सपवमानः तविष्यया तुइतिवृध्यर्थः अस्मादचइरितीप्रत्ययः तस्मादिच्छायामर्थेक्यच् सर्वप्रातिपदिकेभ्यइति सुगागमः आत्मनोबलेच्छया हरिणी हरितवर्णे द्वे शृंगे शिशानः तीक्ष्णीकुर्वन् प्रतिद्रोणकलशंप्रति द्वाभ्यांधाराभ्यां स्थाल्याग्रयणं गृह्णाति । तदुच्यते ते धारा रूपशृंगे तीक्ष्णीकुर्वन् रुवति शब्दायते । रुशब्दे बहुलंछन्दसीतिशः । ततः ससोमः सुकृतं सुष्ठु कृतं योनिं स्वस्थानं द्रोणकलशमानिषीदति समन्तात्तिष्ठति । सोमस्य निर्णिक् निर्नेक्त्री परिशोधयित्री गव्ययी गोमयी त्वक् भवति । आनडुहे हि चर्मणि सोमाभिषवः । एवमव्य- यी अविमयी त्वक् च निर्नेक्त्रीभवति तद्धि दशापवित्रपेक्ष्यमभिहितं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४