मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७१, ऋक् १

संहिता

आ दक्षि॑णा सृज्यते शु॒ष्म्या॒३॒॑सदं॒ वेति॑ द्रु॒हो र॒क्षसः॑ पाति॒ जागृ॑विः ।
हरि॑रोप॒शं कृ॑णुते॒ नभ॒स्पय॑ उप॒स्तिरे॑ च॒म्वो॒३॒॑र्ब्रह्म॑ नि॒र्णिजे॑ ॥

पदपाठः

आ । दक्षि॑णा । सृ॒ज्य॒ते॒ । शु॒ष्मी । आ॒ऽसद॑म् । वेति॑ । द्रु॒हः । र॒क्षसः॑ । पा॒ति॒ । जागृ॑विः ।
हरिः॑ । ओ॒प॒शम् । कृ॒णु॒ते॒ । नभः॑ । पयः॑ । उ॒प॒ऽस्तिरे॑ । च॒म्वोः॑ । ब्रह्म॑ । निः॒ऽनिजे॑ ॥

सायणभाष्यम्

सोमस्य स्वभूतेयज्ञे ऋत्विग्भ्योदक्षणा आसृज्यते अस्माभिः प्रदीयते शुष्मी बलवान् सोमः आसदमास्थानं द्रोणाख्यं वेति प्रविशति । किंच जागृविः जागरणशीलः सोमः द्रुहः द्रोहकारिणोरक्षसो राक्षसात्पाति स्तोतॄन् रक्षति । अपिच हरिर्हरितवर्णः सोमः ओपशं आसमन्तादुपशेतेइत्योपशः सर्वस्य धारकं नभो नभसआदित्यस्य स्वभूतं पयः उदकं कृणुते सर्वत्रकरोति । अग्नौप्रास्ताहुतिरित्यादिक्रमेण करोतीत्यर्थः । यद्वा नभोन्तरिक्षं पयः पयसोधारकं करोति । किंच अयंसोमश्चम्वोर्द्यावापृथिवीनामैतत् चमन्ति भक्षयन्ति मनुष्य- देवाअत्रेति तयोरुपस्तिरे उपस्तरणाय आच्छादनाय ब्रह्मबृहदुद्यत्तमांसि विनाशयन्तम् । यद्वा परिवृढं सूर्यं द्युलोके करोति तथा तमेवसूर्यं निर्निजे पदार्थानां निर्नेजनाय परिशो- धनायच करोति आदित्योहि द्यावापृथिव्यौ स्वतेजसोपस्पृणाति सहि स्वभासा सर्वंनिर्ने- क्तिच ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५