मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७१, ऋक् २

संहिता

प्र कृ॑ष्टि॒हेव॑ शू॒ष ए॑ति॒ रोरु॑वदसु॒र्यं१॒॑ वर्णं॒ नि रि॑णीते अस्य॒ तम् ।
जहा॑ति व॒व्रिं पि॒तुरे॑ति निष्कृ॒तमु॑प॒प्रुतं॑ कृणुते नि॒र्णिजं॒ तना॑ ॥

पदपाठः

प्र । कृ॒ष्टि॒हाऽइ॑व । शू॒षः । ए॒ति॒ । रोरु॑वत् । अ॒सु॒र्य॑म् । वर्ण॑म् । नि । रि॒णी॒ते॒ । अ॒स्य॒ । तम् ।
जहा॑ति । व॒व्रिम् । पि॒तुः । ए॒ति॒ । निः॒ऽकृ॒तम् । उ॒प॒ऽप्रुत॑म् । कृ॒णु॒ते॒ । निः॒ऽनिज॑म् । तना॑ ॥

सायणभाष्यम्

शूषः शत्रूणांशोषकः बलवान् सोमः रोरुवत् अत्यन्तं शब्दंकुर्वन् कृष्टिहेव मनुष्याणां- हन्ता योद्धेव प्रैति प्रगच्छति । किंच असुर्यं असुराणां बाधकं अस्यात्मनोवर्णं हरितं आवा- रकं बलंवा निरिणीत निर्गमयति । ततः ससोमः वव्रिं वृणोति शरिरमिति वव्रिर्जरा तां जहाति त्यजति । कथमिति चेत् तदुच्यते पितुरन्नं सोमः निष्कृतं संस्कृतं द्रोणकलशं दिवं वा इदानीमेति गच्छति । किंच सोमः तनाविवालेन तते विस्तृते दशापवित्रे निर्निजं नि- र्निगितिरूपनाम आत्मीयं रूपं उपप्रुतं उपगमनशीलं कृणुते करोति तस्माज्जरां त्यजती- त्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५