मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७१, ऋक् ४

संहिता

परि॑ द्यु॒क्षं सह॑सः पर्वता॒वृधं॒ मध्व॑ः सिञ्चन्ति ह॒र्म्यस्य॑ स॒क्षणि॑म् ।
आ यस्मि॒न्गावः॑ सुहु॒ताद॒ ऊध॑नि मू॒र्धञ्छ्री॒णन्त्य॑ग्रि॒यं वरी॑मभिः ॥

पदपाठः

परि॑ । द्यु॒क्षम् । सह॑सः । प॒र्व॒त॒ऽवृध॑म् । मध्वः॑ । सि॒ञ्च॒न्ति॒ । ह॒र्म्यस्य॑ । स॒क्षणि॑म् ।
आ । यस्मि॑न् । गावः॑ । सु॒हु॒त॒ऽआदः॑ । ऊध॑नि । मू॒र्धन् । श्री॒णन्ति॑ । अ॒ग्रि॒यम् । वरी॑मऽभिः ॥

सायणभाष्यम्

सहसः सहस्विनोमध्वोमदकराः सोमाः द्युक्षं दीप्यमाने द्युलोके क्षियन्तं निवसन्तं प- र्वतावृधं मेघानां पर्वतानां वा वर्धयितारं हर्म्यस्य शत्रुपुरस्य सक्षणिमभिभवितारमिन्द्रं परिषिंचति । तथा सुहुतादः सुहुतानां हविषां भक्षयितारोगावो मूर्धन् मूर्धनि समुच्छ्रिते ऊधनि पयोधारकेस्थाने स्थितमग्रियं मुख्यं पयः वरीमभिरुरुत्वैः महत्वैर्यस्मिन्पवमानगुण विशिष्टइन्द्रे आश्रीणंति आमिश्रयन्ति दध्ना पयसाच सोमंश्रीणन्ति खलु तदुच्यते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५