मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७१, ऋक् ६

संहिता

श्ये॒नो न योनिं॒ सद॑नं धि॒या कृ॒तं हि॑र॒ण्यय॑मा॒सदं॑ दे॒व एष॑ति ।
ए रि॑णन्ति ब॒र्हिषि॑ प्रि॒यं गि॒राश्वो॒ न दे॒वाँ अप्ये॑ति य॒ज्ञियः॑ ॥

पदपाठः

श्ये॒नः । न । योनि॑म् । सद॑नम् । धि॒या । कृ॒तम् । हि॒र॒ण्यय॑म् । आ॒ऽसद॑म् । दे॒वः । आ । ई॒ष॒ति॒ ।
आ । ई॒मिति॑ । रि॒ण॒न्ति॒ । ब॒र्हिषि॑ । प्रि॒यम् । गि॒रा । अश्वः॑ । न । दे॒वान् । अपि॑ । ए॒ति॒ । य॒ज्ञियः॑ ॥

सायणभाष्यम्

देवोद्योतमानः पवमानः धिया स्वकर्मणा कृतं संपादितं हिरण्ययं हिरण्मयमासदमा- संद्यभिधानं सदनं गृहमेषति अभिमुखं गच्छति । ईषतेर्गत्यर्थस्य व्यत्ययेन परस्मैपदम् । तत्र दृष्टान्तः—श्येनोन योनिं कुलायं यथा श्येनः पक्षी प्रविशति तद्वत् । तत ईमेनं प्रियं प्री- णयितारं सोमं गिरा स्तुत्या बर्हिषि यज्ञे आरिणन्ति स्तोतारोभिमुखं प्रेरयन्ति स्तुवन्ती त्यर्थः । अनन्तरं यज्ञियो यज्ञार्हो यष्टव्योयं सोमः अश्वोन अश्वइव त्वरया देवानप्येति अभिगच्छति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६