मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७१, ऋक् ९

संहिता

उ॒क्षेव॑ यू॒था प॑रि॒यन्न॑रावी॒दधि॒ त्विषी॑रधित॒ सूर्य॑स्य ।
दि॒व्यः सु॑प॒र्णोऽव॑ चक्षत॒ क्षां सोम॒ः परि॒ क्रतु॑ना पश्यते॒ जाः ॥

पदपाठः

उ॒क्षाऽइ॑व । यू॒था । प॒रि॒ऽयन् । अ॒रा॒वी॒त् । अधि॑ । त्विषीः॑ । अ॒धि॒त॒ । सूर्य॑स्य ।
दि॒व्यः । सु॒ऽप॒र्णः । अव॑ । च॒क्ष॒त॒ । क्षाम् । सोमः॑ । परि॑ । क्रतु॑ना । प॒श्य॒ते॒ । जाः ॥

सायणभाष्यम्

उक्षेव वृषभइव यूथा गोयूथानि प्रत्यागच्छन् शब्दंकरोति तद्वदयं सोमः स्तुतीः परियन् परिगच्छन् । अरावीत् शब्दायते ततः सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य त्विषीर्दिप्तीरध्य- धित अधिदधाति सूर्यात्मनाद्युलोकेवतिष्ठतइत्यर्थः । दधातेर्लुङि स्थाध्वोरिच्चेतीत्वकित्वे । किंच दिव्यः दिविभवः सुपर्णः सुपतनः श्येनरूपया गायत्र्या हृतत्वात् शोभनगमनः सोमः क्षां पृथिवीनामैतत् क्षियन्ति निवसन्त्यत्रेति क्षां पृथिवीमवचक्षत अवपश्यति चष्टे- र्लुङि बहुलंछन्दसीति शपोलुगभावः ततः सोमः जाः जाताः प्रजाः क्रतुना प्रज्ञानेन परि- पश्यते परितः पश्यति व्यत्ययेनात्मनेपदं ॥ ९ ॥

हरिंमृजंतीतिनवर्चं पंचमं सूक्तं आंगिरसस्य हरिमन्तस्यार्षं पवमानसोमदेवताकं जाग- तमूर्ध्वंप्रागुशनसइति परिभाषया जागतम् । तथाचानुक्रान्तं—हरिंहरिमन्तइति । गतोविनि- योगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६