मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७३, ऋक् १

संहिता

स्रक्वे॑ द्र॒प्सस्य॒ धम॑त॒ः सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रन्त॒ नाभ॑यः ।
त्रीन्त्स मू॒र्ध्नो असु॑रश्चक्र आ॒रभे॑ स॒त्यस्य॒ नावः॑ सु॒कृत॑मपीपरन् ॥

पदपाठः

स्रक्वे॑ । द्र॒प्सस्य॑ । धम॑तः । सम् । अ॒स्व॒र॒न् । ऋ॒तस्य॑ । योना॑ । सम् । अ॒र॒न्त॒ । नाभ॑यः ।
त्रीन् । सः । मू॒र्ध्नः । असु॑रः । च॒क्रे॒ । आ॒ऽरभे॑ । स॒त्यस्य॑ । नावः॑ । सु॒ऽकृत॑म् । अ॒पी॒प॒र॒न् ॥

सायणभाष्यम्

स्रक्वे यज्ञस्य हनुस्थानीये स्रक्वे ओष्ठप्रान्तो हनुरुच्यते । अधिषवणफलके धमतोभिषूय- माणस्य द्रप्सस्य सोमस्यांशवः समस्वरन् संगच्छन्ते । तदास्यशब्दयन् वा ऋतस्य सत्यभूत- स्य यज्ञस्य योना उत्पत्तिस्थाने नाभयः सोमरसाः समरन्त संगच्छन्ते । अर्तेः समोगमी- त्यादिनात्मनेपदं सर्तिशास्त्यर्तिभ्यश्चेतिच्लेरङ् । अथ असुरोबलवान् सर्वेषांप्रीणनात् प्राण- दाता वा ससोमः मूर्ध्नः समुच्छ्रितान् त्रीन् लोकान् आरभे आरंभणाय मनुष्यदेवादीनां सं- चरणाय चक्रे करोति । किंच सत्यस्य सत्यभूतस्य सोमस्य नावः नौकाइव स्थिताः चतस्रः स्थाल्यः आदित्याग्रयणोक्थ्यध्रुवस्थाल्यइति ताः स्थाल्यः सुकृतं सुष्ठु कर्माणि कुर्वन्तं यज- मानमपीपरन् अभिमतदानेन पूजयन्ति वा । पारयतेर्लुङि चङि सन्वद्भावाभ्यासेत्वदीर्घाः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९