मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७३, ऋक् २

संहिता

स॒म्यक्स॒म्यञ्चो॑ महि॒षा अ॑हेषत॒ सिन्धो॑रू॒र्मावधि॑ वे॒ना अ॑वीविपन् ।
मधो॒र्धारा॑भिर्ज॒नय॑न्तो अ॒र्कमित्प्रि॒यामिन्द्र॑स्य त॒न्व॑मवीवृधन् ॥

पदपाठः

स॒म्यक् । स॒म्यञ्चः॑ । म॒हि॒षाः । अ॒हे॒ष॒त॒ । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । वे॒नाः । अ॒वी॒वि॒प॒न् ।
मधोः॑ । धारा॑भिः । ज॒नय॑न्तः । अ॒र्कम् । इत् । प्रि॒याम् । इन्द्र॑स्य । त॒न्व॑म् । अ॒वी॒वृ॒ध॒न् ॥

सायणभाष्यम्

महिषाः पूज्याः महान्तोवा ऋत्विजः सम्यंचः परस्परंसंगताः सन्तः सम्यगहेषत सोमं स- म्यक् प्रेरयन्ति अभिषुण्वन्तीतियावत् । हिगतौ वृद्धौच लुङि सिचि रूपं ततः वेनाः वेनतेः कान्तिकर्मणइतियास्कः । स्वर्गादिफलंकामयमानाऋत्विजः सिंधोः स्यन्दमानस्योदकस्य ऊ- र्मावधि संघे वसतीवर्यादिषु जलेषु सोममवीविपन् कंपयंति तत्र प्रेरयन्तीत्यर्थः । वपतेर्ण्य न्तस्य लुङि चङि णौचङ्युपधायाह्रस्वइतिह्रस्वः । किंच अर्कमर्चनीयंस्तोत्रं जनयन्तः कुर्व- न्तः ते प्रियां प्रियतमां इन्द्रस्य तन्वं धाम च मधोर्मदकरस्य सोमस्य धाराभिः अवीवृधन् वर्धितवन्तः । वर्धतेर्लुङि चांङ रूपं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९