मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७३, ऋक् ३

संहिता

प॒वित्र॑वन्त॒ः परि॒ वाच॑मासते पि॒तैषां॑ प्र॒त्नो अ॒भि र॑क्षति व्र॒तम् ।
म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒ इच्छे॑कुर्ध॒रुणे॑ष्वा॒रभ॑म् ॥

पदपाठः

प॒वित्र॑ऽवन्तः । परि॑ । वाच॑म् । आ॒स॒ते॒ । पि॒ता । ए॒षा॒म् । प्र॒त्नः । अ॒भि । र॒क्ष॒ति॒ । व्र॒तम् ।
म॒हः । स॒मु॒द्रम् । वरु॑णः । ति॒रः । द॒धे॒ । धीराः॑ । इत् । शे॒कुः॒ । ध॒रुणे॑षु । आ॒ऽरभ॑म् ॥

सायणभाष्यम्

पवित्रवन्तः पवित्रेण शोधकेन सामर्थ्येनयुक्ताः सोमस्य रश्मयः वाचं सोमस्थितां मा- ध्यमिकां वाचं पर्यासते पर्युपविशन्ति । सोमः अन्तरिक्षेतिष्ठतिखलु । सोमोवैराजागंधर्वेष्वा- सीदित्याम्नानात् । ततः प्रत्नः पुराणः एषां रश्मीनां पितायंसोमश्च व्रतं प्रकाशनात्मकं क- र्माभिरक्षति अवितं करोति । किंच वरुणः सर्वस्य स्वतेजसाच्छादकः सोयं सोमः महो- महत् समुद्रमन्तरिक्षनामैतत् महदन्तरिक्षं तैरश्मिभिः तिरोदधे अन्तर्हितमकरोत् सर्वंव्या- प्नोदितियावत् । तमिमं सोमं धीराः इत् इदवधारणे कर्मणि कुशलाः प्राज्ञाएव ऋत्विजः धरुणेषु सर्वस्य धारकेषु वसतीवर्याख्येषूदकेषु आरभं आरब्धुं शेकुः शक्रुवन्ति च रभेस्तु- मर्थे शकिणमुल्कमुलौइति कमल् लित्स्वरेण मध्योदात्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९