मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७३, ऋक् ४

संहिता

स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑ ।
अस्य॒ स्पशो॒ न नि मि॑षन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वः ॥

पदपाठः

स॒हस्र॑ऽधारे । अव॑ । ते । सम् । अ॒स॒र॒न् । दि॒वः । नाके॑ । मधु॑ऽजिह्वाः । अ॒स॒श्चतः॑ ।
अस्य॑ । स्पशः॑ । न । नि । मि॒ष॒न्ति॒ । भूर्ण॑यः । प॒देऽप॑दे । पा॒शिनः॑ । स॒न्ति॒ । सेत॑वः ॥

सायणभाष्यम्

सहस्रधारे बहूदकधारा यस्मात् द्रवन्ति तत्तथोक्तमन्तरिक्षं तस्मिन् वर्तमानास्ते सोम- रश्मयः अव अवस्तात् स्थितां पृथिवीं समस्वरन् वृष्ट्यासंयोजयन्तीत्यर्थः । किंच दिवो- द्युलोकस्य नाके समुच्छ्रितेदेशे वर्तमानाः मधुजिह्वाः मध्वग्राः सोमतेजसा अग्रेभ्योहि मधू त्पन्नंभवति । अतोमधुजिह्वाः असश्चतः संगतवर्जिताः पृथक् पृथक् दिवि अवस्थिताः । अस्यसोमस्य स्वभूताःस्पशः चारभूताः रश्मयः भूर्णयः क्षिप्रगामिनः सन्तोन निमिषन्ति निमेषं न कुर्वन्ति । किंतु पाशिनः सुकृतिनश्च ज्ञातुं सर्वदा जाग्रतीत्यर्थः । अथवा राजा- नोदुष्टान् विवारयितुं सर्वदा जागरणं कुर्वन्ति तद्वत् । एवं ते रश्मयः पदेपदे स्थानेस्थाने सेतवः संबद्धाःसन्तः पाशिनः पापकृतां बाधकाः सन्ति भवन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९