मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७३, ऋक् ५

संहिता

पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोच॑न्तः सं॒दह॑न्तो अव्र॒तान् ।
इन्द्र॑द्विष्टा॒मप॑ धमन्ति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ॥

पदपाठः

पि॒तुः । मा॒तुः । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । ऋ॒चा । शोच॑न्तः । स॒म्ऽदह॑न्तः । अ॒व्र॒तान् ।
इन्द्र॑ऽद्विष्टाम् । अप॑ । ध॒म॒न्ति॒ । मा॒यया॑ । त्वच॑म् । असि॑क्नीम् । भूम॑नः । दि॒वः । परि॑ ॥

सायणभाष्यम्

पितुर्मातुः द्यावापृथिव्योः । द्यौर्मेपिताजनितानाभिरत्रबन्धुर्मेमातापृथिवीमहीयमित्या- दिषु । द्यावापृथिव्योः मातापितृत्वाम्नानात् । द्यावापृथिवीभ्यां ये सोमस्य रश्मयः अध्या समस्वरन् अधिकं प्रादुर्भूताअभवन् । तेऋचा ऋत्विग्भिः क्रियमाणया स्तुत्या शोचन्तो- दीप्यमानाः अव्रतान् कर्मरहितान् यजमानान् संदहन्तः सम्यक् विनाशयन्तः ते रश्मयः इन्द्रद्विष्टां इन्द्राय द्वेषकारिणीम् । क्तेचेति पूर्वपदप्रकृतिस्वरः । इन्द्रेणद्विष्टां वा असिक्नीम् । रात्रिनामैतत् । रात्रिवत् कृष्णरूपां त्वचं राक्षसमित्यर्थः । मायया कर्मणा प्रज्ञया वा भूमनोविस्तृताः भूलोकात् दिवस्परि द्युलोकाच्च अपधमन्ति अपगतं कुर्वन्ति अपघ्नन्ती- त्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९