मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७३, ऋक् ६

संहिता

प्र॒त्नान्माना॒दध्या ये स॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासो रभ॒सस्य॒ मन्त॑वः ।
अपा॑न॒क्षासो॑ बधि॒रा अ॑हासत ऋ॒तस्य॒ पन्थां॒ न त॑रन्ति दु॒ष्कृतः॑ ॥

पदपाठः

प्र॒त्नात् । माना॑त् । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । श्लोक॑ऽयन्त्रासः । र॒भ॒सस्य॑ । मन्त॑वः ।
अप॑ । अ॒न॒क्षासः॑ । ब॒धि॒राः । अ॒हा॒स॒त॒ । ऋ॒तस्य॑ । पन्था॑म् । न । त॒र॒न्ति॒ । दुः॒ऽकृतः॑ ॥

सायणभाष्यम्

श्लोकयंत्रासः श्लोकाः स्तुतयः स्तुतिनियमना रभसस्यमन्तवः वेगमतिमन्यमानाः ए- तादृशायेसोमरश्मयः प्रत्नात् पुराणात् मानात् अन्तरिक्षादध्यासमस्वरन् सहप्रादुर्भूताअ- भवन् तान् रश्मीन् अनक्षासः चक्षुर्वर्जिताः साधुपदार्थानामद्रष्टारोनराः बधिराः देवता- स्तुतिश्रवणवर्जिताः पापकृतोनरश्च अपहासत तान् परित्यजन्ति । दर्शिनः श्रवणवन्तोमेधा- विनस्तु नपरिजहति किंतु स्तुवन्ति । तदेवाह—ऋतस्य सत्यस्य पंथां मार्गभूतमेषां गणं दुष्कृतः पापकृतोनरानतरन्ति नोत्तारयन्ति सुकृतिनस्तु तरन्तीत्यभिप्रायः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०