मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७३, ऋक् ७

संहिता

स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं॑ पुनन्ति क॒वयो॑ मनी॒षिणः॑ ।
रु॒द्रास॑ एषामिषि॒रासो॑ अ॒द्रुह॒ः स्पश॒ः स्वञ्च॑ः सु॒दृशो॑ नृ॒चक्ष॑सः ॥

पदपाठः

स॒हस्र॑ऽधारे । विऽत॑ते । प॒वित्रे॑ । आ । वाच॑म् । पु॒न॒न्ति॒ । क॒वयः॑ । म॒नी॒षिणः॑ ।
रु॒द्रासः॑ । ए॒षा॒म् । इ॒षि॒रासः॑ । अ॒द्रुहः॑ । स्पशः॑ । सु॒ऽअञ्चः॑ । सु॒ऽदृशः॑ । नृ॒ऽचक्ष॑सः ॥

सायणभाष्यम्

कवयः क्रान्तकर्माणः अतएव मनीषिणः प्राज्ञाऋत्विजः सहस्रधारे अनेकधारोपेते वि- तते कर्मणि विस्तृते पवित्रे शुध्युत्पादकेसोमे वर्तमानां वाचं माध्यमिकां सोमःखलु वि- श्वावसुप्रभृतिगंधर्वाश्चान्तरिक्षेतिष्ठन् । सोमोवैराजागंधर्वेष्वासीदि तिश्रवणात् । तत्रवर्तमानं सोमं देवागोपया वाचा क्रीतवन्तः तदासोद्मोवाक् तिष्ठतीति शक्यते वक्तुम् । तस्मात् सोमे- स्थितां माध्यमिकांवाचमापुनंति संस्कुर्वन्ति स्तुवन्तीतियावत् । यउक्तगुणां मरुतांमातरं माध्यमिकां वाचं स्तुवन्ति तेषां रुद्रासोरुद्रपुत्रा मध्यमवाचापुत्रामरुतः स्पशः वाचावशिनो- भवन्ति । कीदृशा इषिरासः इषिरागमनशीलाः अद्रुहः स्तोतॄणामद्रोग्धारः । कर्मणिक्विबौणा दिकः । परैरहिंस्याः स्वंचः शोभनाञ्चनाः अतएव सुदृशः सुदर्शनाः नृचक्षसोनृणांकर्मनेतॄणां द्रष्टारः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०