मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७३, ऋक् ८

संहिता

ऋ॒तस्य॑ गो॒पा न दभा॑य सु॒क्रतु॒स्त्री ष प॒वित्रा॑ हृ॒द्य१॒॑न्तरा द॑धे ।
वि॒द्वान्त्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान्विध्यति क॒र्ते अ॑व्र॒तान् ॥

पदपाठः

ऋ॒तस्य॑ । गो॒पाः । न । दभा॑य । सु॒ऽक्रतुः॑ । त्री । सः । प॒वित्रा॑ । हृ॒दि । अ॒न्तः । आ । द॒धे॒ ।
वि॒द्वान् । सः । विश्वा॑ । भुव॑ना । अ॒भि । प॒श्य॒ति॒ । अव॑ । अजु॑ष्टान् । वि॒ध्य॒ति॒ । क॒र्ते । अ॒व्र॒तान् ॥

सायणभाष्यम्

ऋतस्य सत्यभूतस्य यज्ञस्य गोपा गोपायिता अतएव सुक्रतुः शोभनकर्मा सोमः नद भाय दंभाय स्तंभनाय नभवति परैर्दंभयितुं नशक्यतइत्यर्थः । किंच ससोमः त्री शेश्छन्दसि बहुलमितिलुक् त्रीणि पवित्रा अग्निवायुसूर्यात्मकानि त्रीणि पवित्राणि हृद्यन्तः हृदयस्या- न्तः आददे आदधाति स्वस्मिन् संगमयतीत्यर्थः । अपिच विद्वान् सर्वंजानानः ससोमः विश्वा भुवना सर्वाणि भुवनानि अभिपश्यति ततः कर्ते करोतेरौणादिकस्तप्रत्ययः कर्मण्य- जुष्टानप्रियान् अतएबाव्रतानयजमानान् अवविध्यति अवाङ्मुखान् कृत्वा ताडयति हिन- स्तीतियावत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०