मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७४, ऋक् २

संहिता

दि॒वो यः स्क॒म्भो ध॒रुण॒ः स्वा॑तत॒ आपू॑र्णो अं॒शुः प॒र्येति॑ वि॒श्वतः॑ ।
सेमे म॒ही रोद॑सी यक्षदा॒वृता॑ समीची॒ने दा॑धार॒ समिषः॑ क॒विः ॥

पदपाठः

दि॒वः । यः । स्क॒म्भः । ध॒रुणः॑ । सुऽआ॑ततः । आऽपू॑र्णः । अं॒शुः । प॒रि॒ऽएति॑ । वि॒श्वतः॑ ।
सः । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । य॒क्ष॒त् । आ॒ऽवृता॑ । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । दा॒धा॒र॒ । सम् । इषः॑ । क॒विः ॥

सायणभाष्यम्

दिवोद्युलोकस्य स्कंभः विष्कंभयिता संरोद्धा धरुणः सर्वस्यधारकः यद्वा पृथिव्याधार- कः । विष्टंभोदिवोधरुणः पृथिव्याइत्याम्नानात् । तादृशः स्वाततः सुष्ठुसर्वत्र विततो विस्तृतः अतएवापूर्णः पात्रेषु संपूर्णोयोंशुः सोमात्मकः विश्वतः सर्वतः पर्येति । तिङिचोदात्तवतीति गतेर्निघातः ससोम इमे मही महत्यौ रोदसी द्यावापृथिव्यौ आवृता आसंभजनीयेन कर्म- णा यक्षत् यजतु स्वबलेन संयोजयत्वित्यर्थः ततः सोयं समीचीने परस्परं संगते द्यावा- पृथिव्यौ दाधार धारयांचकार । तुजादीनामित्यभ्यासस्यदीर्घः । अनन्तरं कविः क्रान्तकर्मा इषोन्नानि स्तोतृभ्यः संप्रयच्छतु । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१