मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७४, ऋक् ४

संहिता

आ॒त्म॒न्वन्नभो॑ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा॑यते ।
स॒मी॒ची॒नाः सु॒दान॑वः प्रीणन्ति॒ तं नरो॑ हि॒तमव॑ मेहन्ति॒ पेर॑वः ॥

पदपाठः

आ॒त्म॒न्ऽवत् । नभः॑ । दु॒ह्य॒ते॒ । घृ॒तम् । पयः॑ । ऋ॒तस्य॑ । नाभिः॑ । अ॒मृत॑म् । वि । जा॒य॒ते॒ ।
स॒मी॒ची॒नाः । सु॒ऽदान॑वः । प्री॒ण॒न्ति॒ । तम् । नरः॑ । हि॒तम् । अव॑ । मे॒ह॒न्ति॒ । पेर॑वः ॥

सायणभाष्यम्

आत्मन्वत् अनोनुडितिनुडागमः । आत्मन्वत् सारवत् घृतं पयश्च नभोनभस आदित्य- रूपात् सोमोदुह्यते । किंच ऋतस्य यज्ञस्य नाभिः णहबन्धने स्वमोर्नपुंसकादिति सोलु- ङ्न भवति सर्वविधीनां छन्दसि विकल्पितत्वात् । नाभिर्यज्ञस्यबन्धकं अमृतमुदकंच विजा- यते तस्मादेवप्रादुर्भवति । ततः सुदानवः शोभनस्तुतिहविर्दानवन्तोयजमानाः समीचीनाः परस्परंसंगताःसन्तः तमिमंसोमं प्रीणंति प्रीणयन्ति स्तुतिभिस्तर्पयंति । अथ नरोनेतारः पेरवः । पारक्शणे मापोरित्वेरुन्नितिरुन् प्रत्ययः सर्वस्यरक्षकाः सोमरश्मयः हितं निहितं अवावस्तात् वर्तमानं पार्थिकमुदकं मेहन्ति वर्षन्ति । मिहसेचने भौवादिकः । यद्वा हित- मुदकंपृथिवीं प्रति मेहन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१