मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७४, ऋक् ६

संहिता

स॒हस्र॑धा॒रेऽव॒ ता अ॑स॒श्चत॑स्तृ॒तीये॑ सन्तु॒ रज॑सि प्र॒जाव॑तीः ।
चत॑स्रो॒ नाभो॒ निहि॑ता अ॒वो दि॒वो ह॒विर्भ॑रन्त्य॒मृतं॑ घृत॒श्चुतः॑ ॥

पदपाठः

स॒हस्र॑ऽधारे । अव॑ । ताः । अ॒स॒श्चतः॑ । तृ॒तीये॑ । स॒न्तु॒ । रज॑सि । प्र॒जाऽव॑तीः ।
चत॑स्रः । नाभः॑ । निऽहि॑ताः । अ॒वः । दि॒वः । ह॒विः । भ॒र॒न्ति॒ । अ॒मृत॑म् । घृ॒त॒ऽश्चुतः॑ ॥

सायणभाष्यम्

सहस्रधारे बहूदकधारे तृतीये रजसि लोके स्वर्गे वर्तमाना असश्चतः परस्परमशक्ताः प्रजावतीः उत्पादित प्रजावत्यः सोमस्यस्व भूतास्ताः अवसन्तु अवस्तात् पृथिव्यां पतन्तु । कास्ताइत्याह चतस्रोनाभो नभसोबाधिकाः सोमस्य संबन्धिन्यश्चतस्रोदीप्तयः कलाः दिवो द्युलोकादवः अवस्तात् निहिताः सोमेन स्थापितास्ताः घृतश्चुतः घृतस्य उदकस्य च्याव- यित्र्यः सत्यः हविः सोमादिलक्षणंभरन्ति देवानां प्रयच्छन्ति । तथा अमृतं गोष्वोषधीषुच पयोरूपं सुधारूपंच भरन्ति प्रक्षिपन्ति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२