मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७४, ऋक् ७

संहिता

श्वे॒तं रू॒पं कृ॑णुते॒ यत्सिषा॑सति॒ सोमो॑ मी॒ढ्वाँ असु॑रो वेद॒ भूम॑नः ।
धि॒या शमी॑ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कव॑न्ध॒मव॑ दर्षदु॒द्रिण॑म् ॥

पदपाठः

श्वे॒तम् । रू॒पम् । कृ॒णु॒ते॒ । यत् । सिसा॑सति । सोमः॑ । मी॒ढ्वान् । असु॑रः । वे॒द॒ । भूम॑नः ।
धि॒या । शमी॑ । स॒च॒ते॒ । सः । ई॒म् । अ॒भि । प्र॒ऽवत् । दि॒वः । कव॑न्धम् । अव॑ । द॒र्ष॒त् । उ॒द्रिण॑म् ॥

सायणभाष्यम्

श्वेतं दीप्यमानं शुक्लं रूपं कृणुते तदाकरोति । यद्यदा सिषासति स्वर्गं संभक्तुमिच्छति सोमेपात्राण्यागते सति तत्तेजसानुरंजितानां तेषां श्वेतं रूपं भवति । ततोमीढ्वान् मिहसे- चने अस्मात् क्वसौ दाश्वान् साह्वान् मीढ्वांश्चेति निपातनादभिमतरूपसिद्धिः । कामानां सेक्ता असुरः प्राज्ञः बलवान्वा सोमः भूमनः बहुधनानि वेद स्तोतृभ्योदातुं जानाति प्रयच्छतीतियावत् । सईं सोचिलोपेचेदितिसुलोपः सोयं धिया प्रज्ञानेन प्रवत् प्रकृष्टानि शमी द्वितीयायाः पूर्वसवर्णदीर्घः कर्माणि अभिसचते अभितः समवैति । किंच दिवोन्तरि- क्षात् उद्रिणं उदकवन्तं कवन्धं मेघं कवंधशब्देन मेघोभिधीयते । तात्स्थ्यात्ताच्छब्द्यमिति । मेघं अवदर्षत् अवदारयति विवृतद्वारंकरोति । मेघं विदार्यान्तरिक्षाद्वृष्टिं करोतीत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२