मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७५, ऋक् २

संहिता

ऋ॒तस्य॑ जि॒ह्वा प॑वते॒ मधु॑ प्रि॒यं व॒क्ता पति॑र्धि॒यो अ॒स्या अदा॑भ्यः ।
दधा॑ति पु॒त्रः पि॒त्रोर॑पी॒च्यं१॒॑ नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥

पदपाठः

ऋ॒तस्य॑ । जि॒ह्वा । प॒व॒ते॒ । मधु॑ । प्रि॒यम् । व॒क्ता । पतिः॑ । धि॒यः । अ॒स्याः । अदा॑भ्यः ।
दधा॑ति । पु॒त्रः । पि॒त्रोः । अ॒पी॒च्य॑म् । नाम॑ । तृ॒तीय॑म् । अधि॑ । रो॒च॒ने । दि॒वः ॥

सायणभाष्यम्

ऋतस्य सत्यभूतस्य यज्ञस्य जिह्वा मुख्यत्वेन जिह्वास्थानीयः सोमः प्रियं प्रियकरं मधु मदकरं रसं पवते क्षरति । कीदृशः वक्ता शब्दकृत् यद्वा स्तोतृभिः क्रियमाणाः स्तुत- यः साधीयस्यइति प्रतिश्रवणस्य कर्ता अस्याः धियः एतस्यकर्मणः पतिः पालयिता अदा भ्योरक्षोभिर्हिसितुमशक्यः पुत्रोयजमानः पित्रोर्मातापित्रोरपीच्यं अन्तर्हितं यन्नाम तौ न- जानीतः नामकरणवेलायाम् । तस्मात्तयोरपरिज्ञायमानं तत्तृनीयं नाम दिवोद्युलोकस्य रोच- ने दीप्यमाने सोमेभिषूयमाणेसति अधि दधाति अत्यन्तं धारयति । नक्षत्रव्यावहारिकना- म्नी प्रभाष्य सोमयाजीति तृतीयमस्यनामेति भग्वताबौधायनेनोक्तं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३