मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७५, ऋक् ५

संहिता

परि॑ सोम॒ प्र ध॑न्वा स्व॒स्तये॒ नृभि॑ः पुना॒नो अ॒भि वा॑सया॒शिर॑म् ।
ये ते॒ मदा॑ आह॒नसो॒ विहा॑यस॒स्तेभि॒रिन्द्रं॑ चोदय॒ दात॑वे म॒घम् ॥

पदपाठः

परि॑ । सो॒म॒ । प्र । ध॒न्व॒ । स्व॒स्तये॑ । नृऽभिः॑ । पु॒ना॒नः । अ॒भि । वा॒स॒य॒ । आ॒ऽशिर॑म् ।
ये । ते॒ । मदाः॑ । आ॒ह॒नसः॑ । विऽहा॑यसः । तेभिः॑ । इन्द्र॑म् । चो॒द॒य॒ । दात॑वे । म॒घम् ॥

सायणभाष्यम्

हे सोम स्वस्तये अविनाशाय परिप्रधन्व पात्राणि परितः प्रगच्छ धविर्गत्यर्थः । किंच नृभिः कर्मनेतृभिरृत्विग्भिः पुनानः पूयमानस्त्वं आशिरमाश्रयणं क्षीरादिकमभिवासय आ- च्छादय संयोजयेतियावत् । आहनसः आहनवन्तोवचनवन्तइतियास्कः । शत्रूणामाभिमुख्येन हन्तारः अभिहन्यमाना अभिषूयमाणाःस्तुतिमन्तः शब्दवन्तोवा विहायसःमहन्नामैतत् महा न्तस्तेत्वदीया येमदा मदहेतवोरसाः सन्ति तेभिस्तैः सोमैरस्माभिर्दीयमानैर्मघं मंहनीयं धनमस्मभ्यं दातवे दातुमिन्द्रं चोदय प्रेरय ॥ ५ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसाय- णाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्ससंहिताभाष्ये सप्तमाष्टके द्वितीयोध्यायः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३