मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७६, ऋक् १

संहिता

ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो॑ दे॒वाना॑मनु॒माद्यो॒ नृभि॑ः ।
हरि॑ः सृजा॒नो अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां॑सि कृणुते न॒दीष्वा ॥

पदपाठः

ध॒र्ता । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । दक्षः॑ । दे॒वाना॑म् । अ॒नु॒ऽमाद्यः॑ । नृऽभिः॑ ।
हरिः॑ । सृ॒जा॒नः । अत्यः॑ । न । सत्व॑ऽभिः । वृथा॑ । पाजां॑सि । कृ॒णु॒ते॒ । न॒दीषु॑ । आ ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहंवन्दे विद्यातीर्थमहेश्वरं ॥ १ ॥

व्याख्यायाव्यहतप्रज्ञाः सप्तमस्यद्वितीयकम् । अध्यायंसायणामात्यस्तृतीयं व्याकरोत्यथ ॥ २ ॥

तत्र धर्तेतिपंचर्चं नवमंसूक्तं भार्गवस्यकवेरार्षं जागतं पवमानसोमदेवताकम् । धर्तेत्य- नुक्रान्तम् । गतोविनियोगः ।

धर्ता सर्वस्यधारकः सोमोदिवोन्तरिक्षादन्तरिक्षस्थिताद्दशापवित्रात् पवते पूयते । कीदृशः सोमः कृत्व्यः कर्तव्यः शोध्यइत्यर्थः रसोरसात्मकः देवानांदक्षः बलप्रदः यद्वा दक्षः प्रवर्धनीयोदेवानामर्थाय तथा नृभिर्नेतृभिरृत्विग्भिः अनुमाद्यः अनुमदनीयः स्तुत्योवा हरिर्हरितवर्णः सत्वभिः प्राणिभिः सृजानः सृज्यमानः अत्योन अश्वइव सयथा शिक्षितो वृथाअनायासेन गच्छति तद्वत् वृथा अप्रयत्नेन पाजांसि बलानि स्वीयान्वेगान् कृणुते कुरुते नदीषु वसतीवरीषु ताभिरित्यर्थः । आसिक्तइतिशेषः अयमभिषवसमयाभिप्रायः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः