मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७६, ऋक् २

संहिता

शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्यो॒ः स्व१॒॑ः सिषा॑सन्रथि॒रो गवि॑ष्टिषु ।
इन्द्र॑स्य॒ शुष्म॑मी॒रय॑न्नप॒स्युभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते मनी॒षिभि॑ः ॥

पदपाठः

शूरः॑ । न । ध॒त्ते॒ । आयु॑धा । गभ॑स्त्योः । स्व१॒॑रिति॑ स्वः॑ । सिसा॑सन् । र॒थि॒रः । गोऽइ॑ष्टिषु ।
इन्द्र॑स्य । शुष्म॑म् । ई॒रय॑न् । अ॒प॒स्युऽभिः॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ । म॒नी॒षिऽभिः॑ ॥

सायणभाष्यम्

अयं सोमोगभ्स्त्योर्हस्तयोः आयुधा आयुधानि शूरोन शूरइव धत्ते धारयति स्वः स्वर्गं सुखसाधनं यज्ञंवा सिषासन् संभक्तुमिच्छन् रथिरोरथवान् । रथादिरच् प्रत्ययः । गविष्टिषु यजमानस्यगवामेषणेषु सत्सु यजमानार्थं गोसंभजनाय रथवानित्यर्थः । इन्द्रस्य शुष्मं बलं ईरयन् प्रेरयन्निन्दुः सोमोदेवः अपस्युभिः कर्मेच्छुभिः मनीषिभिः मेधाविभिरृ- त्विग्भिः हिन्वानः प्रेर्यमाणः अज्यते गोभिः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः