मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७६, ऋक् ४

संहिता

विश्व॑स्य॒ राजा॑ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् ।
यः सूर्य॒स्यासि॑रेण मृ॒ज्यते॑ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ॥

पदपाठः

विश्व॑स्य । राजा॑ । प॒व॒ते॒ । स्वः॒ऽदृशः॑ । ऋ॒तस्य॑ । धी॒तिम् । ऋ॒षि॒षाट् । अ॒वी॒व॒श॒त् ।
यः । सूर्य॑स्य । असि॑रेण । मृ॒ज्यते॑ । पि॒ता । म॒ती॒नाम् । अस॑मष्टऽकाव्यः ॥

सायणभाष्यम्

विश्वस्य जगतोराजा स्वामी सोमः पवते पूयते । स्वर्दृशः स्वर्गद्रष्टुः सर्वद्रष्टुर्वा ऋतस्य सत्यभूतस्येन्द्रस्य मनुष्यवाच्यनृतशब्दप्रतियोगिकस्य ऋतशब्दस्य देवार्थः तत्रा- प्यौचित्येनेन्द्रः प्रतिगृह्यते । तस्य धीतिं मतिं कर्मवा ऋषिषाट् ऋषीणामतीन्द्रियद्रष्टृणां अभिभविता समहत्त्वेन स्वयमप्यृषिश्रेष्ठत्वादितिभावः । तथाचमंत्रान्तरं—ब्रह्मादेवानांपद- वीः कवीनामिति । ईदृशः सोमः अवीवशत् अकामयतेन्द्रस्यकर्म । यः सोमः सूर्यस्य देवस्यासि- रेण क्षेपकेण रश्मिना मृज्यते असमष्टकाव्यः अन्यैः कविभिरव्याप्तकर्मा सोमोमतीनां अस्म- दीयानां स्तुतीनां पिता पालकः स्वामी भवतीतिशेषः । यद्वा योमतीनां पिता असमष्ट- काव्यश्चसन् मृज्यते सपवतइतिसंबन्धः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः