मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७६, ऋक् ५

संहिता

वृषे॑व यू॒था परि॒ कोश॑मर्षस्य॒पामु॒पस्थे॑ वृष॒भः कनि॑क्रदत् ।
स इन्द्रा॑य पवसे मत्स॒रिन्त॑मो॒ यथा॒ जेषा॑म समि॒थे त्वोत॑यः ॥

पदपाठः

वृषा॑ऽइव । यू॒था । परि॑ । कोश॑म् । अ॒र्ष॒सि॒ । अ॒पाम् । उ॒पऽस्थे॑ । वृ॒ष॒भः । कनि॑क्रदत् ।
सः । इन्द्रा॑य । प॒व॒से॒ । म॒त्स॒रिन्ऽत॑मः । यथा॑ । जेषा॑म । स॒म्ऽइ॒थे । त्वाऽऊ॑तयः ॥

सायणभाष्यम्

हे सोम त्वं वृषेव यूथा यूथानि वृषभइव सयथा तानि प्रविशति तद्वत् कोशं कोश वद्रसधारकं कलशं पर्यर्षसि परिगच्छसि । कुत्र स्थः सन् अपामुपस्थे अन्तरिक्षे कीदृशः सन् वृषभोवर्षिता कनिक्रदच्छब्दंकुर्वन् । सत्वं हे सोम इन्द्रायेद्रार्थं पवसे पूयसे मत्सरिन्त मोमादयितृतमस्त्वं यथा वयं जेषाम जयेम समिथे संग्रामे त्वोतयस्त्वयारक्षिताः सन्तः ॥ ५ ॥

एषप्रकोशइति पंचर्चंदशमंसूक्तं ऋष्याद्याः पूर्ववत् । एषइत्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः