मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७७, ऋक् १

संहिता

ए॒ष प्र कोशे॒ मधु॑माँ अचिक्रद॒दिन्द्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः ।
अ॒भीमृ॒तस्य॑ सु॒दुघा॑ घृत॒श्चुतो॑ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ ॥

पदपाठः

ए॒षः । प्र । कोशे॑ । मधु॑ऽमान् । अ॒चि॒क्र॒द॒त् । इन्द्र॑स्य । वज्रः॑ । वपु॑षः । वपुः॑ऽतरः ।
अ॒भि । ई॒म् । ऋ॒तस्य॑ । सु॒ऽदुघाः॑ । घृ॒त॒ऽश्चुतः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ ॥

सायणभाष्यम्

एषोयं सोमोमधुमान् मधुररसः कोशे द्रोणकलशे प्राचेक्रदत् प्रकर्षेणशब्दायते कीदृश- एषः इन्द्रस्यवज्रो वज्रस्थानीयः बलकरत्वेन वज्रवत् प्रहरणसाधनत्वात् वज्रत्वोपचारः एषएवहिसोमः वज्रे इन्द्रस्यसाधने तथा वपुषो बीजानांवप्तुरन्यस्माद्वपुष्टरः अतिशयेन वप्ता बीजावापस्य सोमकर्तृकत्वात् । सोमोवैरेतोधाइतिश्रुतेः । ईमस्य ऋतस्य सत्यफलस्य सोमस्य धाराइतिशेषः । अभ्यर्षन्ति अभिगच्छन्ति । कीदृश्यस्ताः सुदुघाः सुष्ठुदोग्ध्र्यः फलानाम् । घृतश्चुतः उदकस्य रसस्य वा क्षरयित्र्यः वाश्राः शब्दयन्त्यः किमिव पयसेव पयसायुक्ता वाश्राः धेनवइवेति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः