मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७७, ऋक् २

संहिता

स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रजः॑ ।
स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥

पदपाठः

सः । पू॒र्व्यः । प॒व॒ते॒ । यम् । दि॒वः । परि॑ । श्ये॒नः । म॒था॒यत् । इ॒षि॒तः । ति॒रः । रजः॑ ।
सः । मध्वः॑ । आ । यु॒व॒ते॒ । वेवि॑जानः । इत् । कृ॒शानोः॑ । अस्तुः॑ । मन॑सा । अह॑ । बि॒भ्युषा॑ ॥

सायणभाष्यम्

सः सोमः पूर्व्यः प्रत्नः पवते पूयतेभिषूयतइत्यर्थः । यंसोमंदिवोद्युलोकात् श्येनइषितः स्वमात्राप्रेषितः सन् परिमथायत् पर्यमश्नात् तिरस्तीर्णं तिरस्कुर्वन् । किंच रजः तृतीयं- लोकं सएव सोमो मध्वो मधुररसं सोमं आयुवते यौति पृथक्करोति द्युलोकात् स्वयं वेविजानइत् चलन्नधोगच्छन् कृशानोः सोमपालस्य अस्तुः शरक्षेप्तुः सकाशाद्बिभ्युषा भी- तेनमनसा अह सह मध्वआयुवतइतिसंबंधः । कृशानोः सोमपालत्वं ब्राह्मणेस्पष्टमुक्तं—कृशानुः सोमपालःसव्यस्यपदः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः