मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७७, ऋक् ३

संहिता

ते न॒ः पूर्वा॑स॒ उप॑रास॒ इन्द॑वो म॒हे वाजा॑य धन्वन्तु॒ गोम॑ते ।
ई॒क्षे॒ण्या॑सो अ॒ह्यो॒३॒॑ न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ॥

पदपाठः

ते । नः॒ । पूर्वा॑सः । उप॑रासः । इन्द॑वः । म॒हे । वाजा॑य । ध॒न्व॒न्तु॒ । गोऽम॑ते ।
ई॒क्षे॒ण्या॑सः । अ॒ह्यः॑ । न । चार॑वः । ब्रह्म॑ऽब्रह्म । ये । जु॒जु॒षुः । ह॒विःऽह॑विः ॥

सायणभाष्यम्

ते वक्ष्यमाणाः पूर्वासः पूर्वे उपरासः उपरता अत्रेत्युपराः तादृशाइन्दवः सोमाः महे महते गोमते नोमह्यं वाजायान्नायान्नलाभार्थं धन्वन्तु गच्छन्तु प्राप्नुवन्तु । कीदृशाइन्दवः ईक्षेण्यासः ईक्षणीयाः संदर्शनीयाः अह्योन अह्यः स्त्रियः आहननात् ताइव सुवेषाःस्त्रियइव चारवोरमणीयाः । तेइत्युक्तं केइत्याह येइन्दवोब्रह्मब्रह्म सर्वमपिस्तावकंमंत्रजातं हविर्हविः सर्वमपिहविर्जातंच जुजुषुः सेवन्ते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः