मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७७, ऋक् ५

संहिता

चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो॑ म॒हाँ अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते ।
असा॑वि मि॒त्रो वृ॒जने॑षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ॥

पदपाठः

चक्रिः॑ । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । म॒हान् । अद॑ब्धः । वरु॑णः । हु॒रुक् । य॒ते ।
असा॑वि । मि॒त्रः । वृ॒जने॑षु । य॒ज्ञियः॑ । अत्यः॑ । न । यू॒थे । वृ॒ष॒ऽयुः । कनि॑क्रदत् ॥

सायणभाष्यम्

चक्रिः सर्वस्यकर्ता कृत्व्यः कर्मण्योरसोरसात्मकोमहान् गुणैरधिकः अदब्धः अहिंस्यः वरुणः हुरुक् कुटिलं यते गच्छते इतस्ततः परिचरतइत्यर्थः । तदर्थं दिवःसकाशात् पवते पूयते अन्तरिक्षस्थाद्दशापवित्रादित्यर्थः । किंच सोमः असावि सूयते कदा वृजनेषु अरिष्टे षुसत्सु तत्परिहारार्थम् । कीदृशः समित्रः सर्वेषांमित्रभूतः यज्ञियोयष्टव्यः अत्योन अश्वइव यूथे वडवायूथे सयथावृषयुःसन् शब्दंकरोति तद्वदसौ वृषभोरसस्यवर्षिता कनिक्रदच्छब्दं कुर्वन् असाविइति ॥ ५ ॥

प्रराजावाचमिति पंचर्चमेकादशंसूक्तं ऋष्याद्याः पूर्ववत् । प्रराजेत्यनुक्रान्तम् । गतोविनि- योगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः