मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७८, ऋक् १

संहिता

प्र राजा॒ वाचं॑ ज॒नय॑न्नसिष्यदद॒पो वसा॑नो अ॒भि गा इ॑यक्षति ।
गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा॑ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तम् ॥

पदपाठः

प्र । राजा॑ । वाच॑म् । ज॒नय॑न् । अ॒सि॒स्य॒द॒त् । अ॒पः । वसा॑नः । अ॒भि । गाः । इ॒य॒क्ष॒ति॒ ।
गृ॒भ्णाति॑ । रि॒प्रम् । अविः॑ । अ॒स्य॒ । तान्वा॑ । शु॒द्धः । दे॒वाना॑म् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् ॥

सायणभाष्यम्

राजा राजमानोयं सोमोभिषूयमाणः सन् वाचं शब्दं जनयन् उत्पादयन् असिष्यदत्प्र स्यन्दते । तथा अपोवसतीवरीर्वसानः आच्छादयन् गाः स्तुतीः अभि इयक्षति अभिग्च्छति इयक्षतिर्गतिकर्मसुपठितः अस्यसोमस्य रिप्रं अनुपादेयत्वेन पापरूपं अभिषुतवल्लीशकला- दिरूपं अविरविरोमनिर्मितं दशापवित्रं तान्वा स्वीयेन वस्त्रेण गृभ्णाति गृह्णाति शोधन- समये पश्चात् शुद्धोदेवानां निष्कृतं संस्कृतंस्थानं उपयाति उपगच्छति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः