मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७८, ऋक् २

संहिता

इन्द्रा॑य सोम॒ परि॑ षिच्यसे॒ नृभि॑र्नृ॒चक्षा॑ ऊ॒र्मिः क॒विर॑ज्यसे॒ वने॑ ।
पू॒र्वीर्हि ते॑ स्रु॒तय॒ः सन्ति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षदः॑ ॥

पदपाठः

इन्द्रा॑य । सो॒म॒ । परि॑ । सि॒च्य॒से॒ । नृऽभिः॑ । नृ॒ऽचक्षाः॑ । ऊ॒र्मिः । क॒विः । अ॒ज्य॒से॒ । वने॑ ।
पू॒र्वीः । हि । ते॒ । स्रु॒तयः॑ । सन्ति॑ । यात॑वे । स॒हस्र॑म् । अश्वाः॑ । हर॑यः । च॒मू॒ऽसदः॑ ॥

सायणभाष्यम्

हे सोम त्वमिन्द्रायेन्द्रार्थं नृभिर्नेतृभिरृत्विग्भिः परिषिच्यते अभिषूयसे । तथा हेसोम नृचक्षाःनृणां यष्टृणामनुग्रहेण द्रष्टा ऊर्मिः प्रेर्यमाणःप्रवृद्धोवा कविर्मेधावी च त्वं वनेउदके अज्यसे प्रेर्यसे पूर्वीर्बद्भ्योहि तेस्त्रुतयोमार्गाः छिद्राणिसन्ति यातवे यातुम् । अल्पस्यसोमस्या- परिमितस्तुतिगमनासंभवात्तस्यबाहुल्यमाह चमूषदः अभिषवणफलकयोः सीदतः सहस्रं अपरिमिता अश्वा व्याप्ता हरयोहरितवर्णाः अंशवःसन्ति अथचेन्द्राय परिषिच्यसइत्युक्त- त्वादिन्द्रप्राप्तौमार्गसाधनयोः सद्भाव उत्तरार्धेनप्रतिपादितः । तेपुरातन्यः सरण्यः सन्तीन्द्रं प्रतियातुम् । तथा सहस्त्रसंख्याकाहरितवर्णाः अश्वाश्च सन्ति अथचेन्द्राय चमूषदस्तवेति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः