मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७८, ऋक् ३

संहिता

स॒मु॒द्रिया॑ अप्स॒रसो॑ मनी॒षिण॒मासी॑ना अ॒न्तर॒भि सोम॑मक्षरन् ।
ता ईं॑ हिन्वन्ति ह॒र्म्यस्य॑ स॒क्षणिं॒ याच॑न्ते सु॒म्नं पव॑मान॒मक्षि॑तम् ॥

पदपाठः

स॒मु॒द्रियाः॑ । अ॒प्स॒रसः॑ । म॒नी॒षिण॑म् । आसी॑नाः । अ॒न्तः । अ॒भि । सोम॑म् । अ॒क्ष॒र॒न् ।
ताः । ई॒म् । हि॒न्व॒न्ति॒ । ह॒र्म्यस्य॑ । स॒क्षणि॑म् । याच॑न्ते । सु॒म्नम् । पव॑मानम् । अक्षि॑तम् ॥

सायणभाष्यम्

समुद्रियाः समुद्रसाधनत्वात्समुद्रमन्तरिक्षं तत्संबन्धिन्यः अप्सरसः काश्चनअंतर्यज्ञमध्ये आसीनाः पात्रेषुवर्तमानाः वसतीवर्योमनीषिणं मेधाविनं सोममभ्यक्षरन् अभिषूयमाणं सोममभिक्षरन्ति ताईं एनं एवमानं हर्म्यस्य हर्म्यवत्सुखकरस्य यागगृहस्य सक्षणिं चेत- नशीलं हिन्वन्ति वर्धयन्ति पोषयन्ति तएते स्तोतारोवा पवमानं सोमं अक्षितमक्षिणं सुम्नं सुखं याचन्ते प्रार्थयन्ते तत्रायंभावः काश्चनाप्सरसः सोमंराजानं मनीषिणंकामय- माना देवानपिपरित्यज्य स्वर्गादागत्य राजः समीपेस्थित्वा तस्यरसानाददते स्वरसेनव- र्धयन्ति तंसुखं याचन्तइति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः