मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७८, ऋक् ४

संहिता

गो॒जिन्न॒ः सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् ।
यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुव॑म् ॥

पदपाठः

गो॒ऽजित् । नः॒ । सोमः॑ । र॒थ॒ऽजित् । हि॒र॒ण्य॒ऽजित् । स्वः॒ऽजित् । अ॒प्ऽजित् । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् ।
यम् । दे॒वासः॑ । च॒क्रि॒रे । पी॒तये॑ । मद॑म् । स्वादि॑ष्ठम् । द्र॒प्सम् । अ॒रु॒णम् । म॒यः॒ऽभुव॑म् ॥

सायणभाष्यम्

नोस्माकं गोजित् गवांजेता तथा रथजित् रथस्यजेता हिरण्यजित् हिरण्यजेता तथा स्वर्जित् स्वर्गस्य सुखस्यजेता अज्बित् अपांजेता सहस्रजित् सहस्रसंख्याकस्य धनस्यजेता सोमः पवते पूयते यंदेवासोदेवाश्चक्रिरेकृतवन्तः । किमर्थं पीतये पानाय कीदृशं सोमं मदं मदकरं स्वादिष्ठं स्वादुतमं द्रप्सं रसात्मकं अरुणं अरुणवर्णं मयोभुवं सुखस्यभावयितारं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः