मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७८, ऋक् ५

संहिता

ए॒तानि॑ सोम॒ पव॑मानो अस्म॒युः स॒त्यानि॑ कृ॒ण्वन्द्रवि॑णान्यर्षसि ।
ज॒हि शत्रु॑मन्ति॒के दू॑र॒के च॒ य उ॒र्वीं गव्यू॑ति॒मभ॑यं च नस्कृधि ॥

पदपाठः

ए॒तानि॑ । सो॒म॒ । पव॑मानः । अ॒स्म॒ऽयुः । स॒त्यानि॑ । कृ॒ण्वन् । द्रवि॑णानि । अ॒र्ष॒सि॒ ।
ज॒हि । शत्रु॑म् । अ॒न्ति॒के । दू॒र॒के । च॒ । यः । उ॒र्वीम् । गव्यू॑तिम् । अभ॑यम् । च॒ । नः॒ । कृ॒धि॒ ॥

सायणभाष्यम्

हे सोम एतानि पूर्वमंत्रोक्तानि गवादीनि द्रविणानि सन्यानि कृण्वन् कुर्वन् पवमा- नः पूयमानः अर्षसि पवसे जह्जिच शत्रुं योस्मच्छत्रुरंतिके समीपे दूरके अत्यंतदूरे देशेच वर्तते तं जहि । तथा उर्वीं गव्यूतिं विस्तीर्णं मार्गं अभयं नोस्माकं कृधि कुरु ॥ ५ ॥

अचोदसइति पंचर्चंद्वादशंसूक्तं ऋष्याद्याः पूर्ववत् । अचोदसइत्यनुक्रान्तम् । गतोविनि- योगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः