मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७९, ऋक् २

संहिता

प्र णो॑ धन्व॒न्त्विन्द॑वो मद॒च्युतो॒ धना॑ वा॒ येभि॒रर्व॑तो जुनी॒मसि॑ ।
ति॒रो मर्त॑स्य॒ कस्य॑ चि॒त्परि॑ह्वृतिं व॒यं धना॑नि वि॒श्वधा॑ भरेमहि ॥

पदपाठः

प्र । नः॒ । ध॒न्व॒न्तु॒ । इन्द॑वः । म॒द॒ऽच्युतः॑ । धना॑ । वा॒ । येभिः॑ । अर्व॑तः । जु॒नी॒मसि॑ ।
ति॒रः । मर्त॑स्य । कस्य॑ । चि॒त् । परि॑ऽह्वृतिम् । व॒यम् । धना॑नि । वि॒श्वधा॑ । भ॒रे॒म॒हि॒ ॥

सायणभाष्यम्

धन्वन्तु प्रगच्छन्तु नोस्माकमिन्दवः सोमाः मदच्युतो मदस्राविणोवा अथवा किंचिदि त्यर्थः धना धनान्यपि प्रधन्वन्तु येभिर्यैःसोमैः अर्वतोबलवतः शत्रोःसमीपं जुनीमसि जुनीमः प्राप्नुमः कस्यचित् कस्यापिमर्तस्य मनुष्यस्य प्रबलस्य परिहृतिं परितोबाधांतिर- स्तिरस्कुर्वन्तोवयंधनानि गवादिरूपाणि विश्वधा सर्वदा भरेमहि बिभृयाम ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः