मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७९, ऋक् ३

संहिता

उ॒त स्वस्या॒ अरा॑त्या अ॒रिर्हि ष उ॒तान्यस्या॒ अरा॑त्या॒ वृको॒ हि षः ।
धन्व॒न्न तृष्णा॒ सम॑रीत॒ ताँ अ॒भि सोम॑ ज॒हि प॑वमान दुरा॒ध्य॑ः ॥

पदपाठः

उ॒त । स्वस्याः॑ । अरा॑त्याः । अ॒रिः । हि । सः । उ॒त । अ॒न्यस्याः॑ । अरा॑त्याः । वृकः॑ । हि । सः ।
धन्व॑न् । न । तृष्णा॑ । सम् । अ॒री॒त॒ । तान् । अ॒भि । सोम॑ । ज॒हि । प॒व॒मा॒न॒ । दुः॒ऽआ॒ध्यः॑ ॥

सायणभाष्यम्

उतापिच ससोमः स्वस्या अरात्याः स्वीयस्यशत्रोः समीपं अरिः अभिगन्ताहननाय । उतापिच ससोमोन्यस्या अस्मदीयायाअरात्या अस्मच्छत्रोर्वृकोहि हिंसकः खलु । अराति- शब्दः स्त्रीलिंगोप्यस्ति । अथप्रत्यक्षकृतः धन्वन्नतृष्णा धन्व निरुदकोदेशः तस्मिंस्थितस्य तृष्णोव सायथा तंसमरीत प्राप्नोति तद्वत् तानुभयविधान् शत्रून् जहि । किंच हे सोम पवमान दुराध्यः शत्रुभिः दुःसाध्यस्त्वं जहि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः