मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७९, ऋक् ५

संहिता

ए॒वा त॑ इन्दो सु॒भ्वं॑ सु॒पेश॑सं॒ रसं॑ तुञ्जन्ति प्रथ॒मा अ॑भि॒श्रियः॑ ।
निदं॑निदं पवमान॒ नि ता॑रिष आ॒विस्ते॒ शुष्मो॑ भवतु प्रि॒यो मदः॑ ॥

पदपाठः

ए॒व । ते॒ । इ॒न्दो॒ इति॑ । सु॒ऽभ्व॑म् । सु॒ऽपेश॑सम् । रस॑म् । तु॒ञ्ज॒न्ति॒ । प्र॒थ॒माः । अ॒भि॒ऽश्रियः॑ ।
निद॑म्ऽनिदम् । प॒व॒मा॒न॒ । नि । ता॒रि॒षः॒ । आ॒विः । ते॒ । शुष्मः॑ । भ॒व॒तु॒ । प्रि॒यः । मदः॑ ॥

सायणभाष्यम्

पूर्वत्राद्रयस्त्वांबप्सतीत्युक्तं तदेवोच्यते हे इन्दो सोम एव एवं इदानीं क्रियमाणप्रका- रेण ते तव सुभ्वं शोभनभवनं सुपेशसं पेशइतिरूपनाम सुरूपं रसं प्रथमाः प्रथममेव यद्वा प्रथमइतिमुख्यनाम प्रथमामुख्याः ग्रावाणः अध्वर्यवोवा अभिश्रियः अभिश्रयन्तः सन्तः तुंजन्ति प्रेरयन्ति । हे पवमान निदंनिदं अस्मन्निन्दकं सर्वमपिशत्रुं नितारिषः विना शय । ते तव शुष्मोबलकरः प्रियः पिर्यभूतोमदः मदकरोरसः आविर्भवतु ॥ ५ ॥

सोमस्यधारेति पंचर्चंत्रयोदशंसूक्तं भरद्वाजस्य वसुनाम्नआर्षं जागतं पवमानसोमदेव- ताकं तथाचानुक्रान्तं—सोमस्यवसुर्भारद्वाजइति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः