मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८०, ऋक् १

संहिता

सोम॑स्य॒ धारा॑ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान्ह॑वते दि॒वस्परि॑ ।
बृह॒स्पते॑ र॒वथे॑ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ॥

पदपाठः

सोम॑स्य । धारा॑ । प॒व॒ते॒ । नृ॒ऽचक्ष॑सः । ऋ॒तेन॑ । दे॒वान् । ह॒व॒ते॒ । दि॒वः । परि॑ ।
बृह॒स्पतेः॑ । र॒वथे॑न । वि । दि॒द्यु॒ते॒ । स॒मु॒द्रासः॑ । न । सव॑नानि । वि॒व्य॒चुः॒ ॥

सायणभाष्यम्

सोमस्याभिषूयमाणस्य सा धारा पवते श्चोतते । कीदृशस्यसोमस्य नृचक्षसः नृणां यज मानानांद्रष्टुः सच ऋतेन यज्ञेन देवान् सोमभाजइन्द्रादीन् हवते कुत्रदिवस्परि द्युलोकस्यो परि वर्तमानान् बृहस्पतेः मंत्रपालकस्य स्तोतुः रवथेन शब्देन स्तोत्रेण विदिद्युते विद्यो- तते समुद्रासोन समुद्राइव पृथिवीं सवनानि यज्ञसंबन्धीनि विव्यचुः व्याप्नुवन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः